(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.244. अध्यायः 244
Mahabharata - Vana Parva - Chapter Topics
भीमेन युधिष्ठिरंप्रति दुर्योधनकृतापनयानुस्मनारणपूर्वकं तद्विमोचनस्यानौचित्यप्रतिपादने युधिष्ठिरेण पुनस्तंप्रति तच्चोदनायामर्जुनेन तत्प्रतिज्ञानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

यधिष्ठिर उवाच। 3-244-0x(2599)(25458)
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः।
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥ 3-244-1(25459)
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर।
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥ 3-244-2(25460)
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्।
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रधर्षणम् ॥ 3-244-3(25461)
जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान्।
स एवं परिभूयास्मानकार्षीदिदमप्रियम् ॥ 3-244-4(25462)
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे।
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥ 3-244-5(25463)
श्चरणं च प्रपन्नानां त्राणार्थं च कुलस्य च।
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम् ॥ 3-244-6(25464)
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः।
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम् ॥ 3-244-7(25465)
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः।
धृतराष्ट्रस्य पुत्राणां विमला काञ्चनध्वजाः ॥ 3-244-8(25466)
सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान्।
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान् ॥ 3-244-9(25467)
एतानास्थाय वै यत्ता गन्धर्वान्योद्धुमाहवे।
सुयोधनस्य मोक्षाय प्रयतध्वमतनद्रिताः ॥ 3-244-10(25468)
`परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम्।
परस्परविरोधे तु वयं पञ्चैव ते शतम् ॥' 3-244-11(25469)
य एव कश्चिद्राजन्यः शरणार्थमिहागतम्।
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥ 3-244-12(25470)
`एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत।
कोपसंरक्तनयनः पूर्ववैरमनुस्मरन् ॥ 3-244-13(25471)
पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर।
दुर्बुद्धिर्हि कृता वीर तदा दैवेन रक्षिताः ॥ 3-244-14(25472)
कालकूटविषं तीक्ष्णं भोजने मम भारत।
उप्त्वा गङ्गां लतापाशैर्वैद्ध्वा च प्राक्षिपत्प्रभो ॥ 3-244-15(25473)
रसातलं च संप्राप्य तदा वासुकिमञ्जसा।
तत्र दृष्ट्वा तु राजेन्द्रपुनः प्राप्तो महीतलम् ॥ 3-244-16(25474)
द्यूतकालेऽपिकौन्तेय वृजिनानि कृतनि वै।
द्रौपद्याश्च पराभर्शः केशग्रहणमेव च।
वस्त्रापहरणं चैव सभामध्ये कृतानि वै ॥ 3-244-17(25475)
राज्यं चाच्छिद्य राजेन्द्र उक्तवान्परुषाणि नः।
पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः ॥ 3-244-18(25476)
अस्माबिरेवकर्तव्यं धार्तराष्ट्रस्य निग्रहम्।
अन्येन तु कृतं तद्वै मैत्र्यमस्माकमिच्छता।
उपकारी तु गन्धर्वो मा राजन्विमना भव ॥ 3-244-19(25477)
वैशम्पायन उवाच। 3-244-20x(2600)
एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः।
विललाप सुदुःखार्तो नीयमानः सुयोधनः ॥ 3-244-20(25478)
युधिष्ठिर महाबाहो सर्वधर्मभृतांवर।
सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात् ॥ 3-244-21(25479)
पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर'
सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात्।
रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः ॥ 3-244-22(25480)
भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम्।
दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा ॥ 3-244-23(25481)
बद्ध्वा हरन्ति गन्धर्वा अस्मान्दारांश्च सर्वशः।
अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः ॥ 3-244-24(25482)
यमौ मामनुधावेतां रक्षार्थं मम सायुधौ।
कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम्।
व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः ॥ 3-244-25(25483)
एवं विलपमानस्य कौरवस्यार्तया गिरा।
श्रुत्वा विलापं संभ्रान्तो घृणयाऽभिपरिप्लुतः ॥ 3-244-26(25484)
युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत्।
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः' ॥ 3-244-27(25485)
क इवार्यो दयेत्प्राणानभिधावेति चोदितः।
प्राञ्जलं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥ 3-244-28(25486)
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः।
शत्रोश्च मोक्षणं क्लेशास्त्रीणि चैकं च तत्समम् ॥ 3-244-29(25487)
न ह्यस्त्यधिकमेतस्माद्यदापन्नः सुयोधनः।
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते ॥ 3-244-30(25488)
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर।
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा ॥ 3-244-31(25489)
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्।
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥ 3-244-32(25490)
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ।
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥ 3-244-33(25491)
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्।
सर्वोपायैर्पिमोच्यास्ते निगृह्य परिपन्थिनः ॥ 3-244-34(25492)
एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर।
वैताने कर्मणि तते वर्तमाने च भारत।
`वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम्' ॥ 3-244-35(25493)
वैशम्पायन उवाच। 3-244-36x(2601)
अजातसत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः।
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥ 3-244-36(25494)
अर्जुन उवाच। 3-244-37x(2602)
यदि ककसाम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्।
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥ 3-244-37(25495)
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः।
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥ 3-244-38(25496)

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-244-28 क इवार्यो नयेत्प्राणान् इति थ. पाठः। क इहार्यो भवेत्राणं इति झ. पाठः। अभिधाव याहीति चोदित आर्यः प्राणान् दयेत्। स्वप्राणेषु दयां कुर्यादित्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.